Thursday, 18 July 2024

Let's Learn Bhagavad Gita -




  • https://youtu.be/6KNuURg1RY4?si=ePjdYDr9TXNpeeoZ
  • https://vivekavani.com/bg/
  • https://sanskritdocuments.org/doc_giitaa/bhagvadnew.html
  • ॥ ॐ श्री परमात्मने नमः ॥

    ॥ अथ श्रीमद्भगवद्गीता ॥

    अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः

    धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १-१॥ सञ्जय उवाच । दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ १-२॥ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १-३॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १-४॥ धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ १-५॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ १-६॥ अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ १-७॥

  • भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
    अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ १-८॥ (सौमदत्तिर्जयद्रथः)
    
    अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
    नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ १-९॥
    
    अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
    पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १-१०॥
    
    अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
    भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ १-११॥
    
    तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
    सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १-१२॥
    
    ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
    सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १-१३॥
    
    ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
    माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४॥
    
    पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
    पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १-१५॥
    
    अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
    नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १-१६॥
    


No comments:

Post a Comment